ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

शुक्लयजुः काण्वसंहितायां भक्तितत्त्वम्

Journal: Praxis International Journal of Social Science and Literature (Vol.4, No. 6)

Publication Date:

Authors : ;

Page : 8-14

Keywords : दुरवगाहे; प्रेक्षावतां; आमनन्ति; ससिंद्धम्; निगूढ़तया; वरिवर्ति; अयजन्त; स्तुवन्ति; जेगीयन्ते;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

अनादि दुरवगाहे संसृतिप्रवाहे निमज्ज्योन्मज्जतमविद्याकामकर्मभि: क्लिश्यमानानां जनानां समुत्तरणाय कर्मज्ञानं भक्तियोगादिषु विविधसाधनेषु सत्स्वपि तेषु भगवद्भक्तिरेव अनपाय उपाय इत्यत्र नास्ति वैमत्यं प्रेक्षावतां सताम्। अत एव भगवता श्रीमच्छङ्कराचार्येण मोक्षसाधनसामर्ग्यां भक्तिरेव गरीयसी इति निर्विवादं प्रत्यपादि। अस्य च भक्तितत्त्वस्य मूलं किमिति जिज्ञास्यमाने यथा सम्पूर्णभारतीयमूलभूतविचाराणां शेवधि: वैदिकवाङ्मयस्तथैव स भक्तेरपि उत्स:। केचन उपास्यविषयकप्रीत्यतिशयसूचको भक्तिशब्द: वेदेषु नोपलभ्यत इत्याहु: परन्तु नैतत् युक्तिसहम्। यद्यपि निरुक्ते विभागार्थक एव भक्तिशब्द: प्राप्यते तथापि तस्य ते भक्तिवांस: स्याम इति मन्त्रे भक्तिशब्द: प्रकृततात्पर्यक एव। किञ्च महतस्ते विष्णो: सुमतिं भजामहे इति मन्त्रे भक्ति शब्दस्याभावेऽपि तदर्थ: स्पष्ट: एव। किञ्च सामवेदेऽपि उपास्यतां श्रियमव्यक्तसंज्ञां भक्त्या मर्त्यो मुच्यते सर्वबन्धन: । इत्यत्र भक्तेरुपदेशेन सह तस्या महत्त्वातिशयोऽपि सम्यक् प्रतिपादित:। तस्मात् शब्दतोऽर्थतश्च भक्ति: वेदमूलैवेति निश्चितम्।तत्र तावत् काण्वसंहितायां कथं भक्तितत्वानि वर्तन्ते तस्मिन् विषये उपरिष्टाद् वेव्रीयते ।

Last modified: 2021-06-19 16:30:02