ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

नारदीयभक्तिसूत्रानुसारेण भक्तितत्त्वस्य स्वरूपविमर्शः

Journal: International Education and Research Journal (Vol.10, No. 7)

Publication Date:

Authors : ;

Page : 01-05

Keywords : भक्तिः; नारदः; भक्तिलक्षणम्; भक्तिसाधनम्; भक्तमाहात्म्यम्; भक्तिफलम्; ईश्वरप्रेम;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

जगदिदं दुःखपूर्णम्। सर्वे जीवा अत्राध्यात्मिकाधिभौतिकाधिदैविकदुःखपीडिताः सन्ति। तेषां दुःखमोचनाय शास्त्रकारा बहुविधानि शास्त्राणि प्रतियुगं रचितवन्तः। नारदविरचितभक्तिसूत्रे आनन्दमयजीवनलाभार्थं भक्तिमार्गो निर्दिष्टः। प्रबन्धेऽस्मिन्नादौ सरलसुरगिरा श्रीमद्भागवतमहापुराणानुसारेण देवर्षेर्नारदस्य संक्षिप्तजीवनमुपस्थापितम्। ततो नारदस्य भक्तिसूत्रानुसारं भक्तिलक्षणं, तद्विषये मतभेदः, ज्ञानकर्मयोगेभ्यो भक्तेः श्रेष्ठता, भक्तिमार्गस्य साधनानि, भक्तेन संसारासक्तिरूपमायातरणं, भाषया भक्त्या अप्रकाश्यत्वं, गौण्या भक्त्यास्त्रिविधभेदाः, भक्त्याः सुलभता सार्वजनीनता च, भक्तिपथो बाधकानि, तेषां बाधकानां प्रतिकाराः, भक्तिफलं, भक्त्या एकादशविधा भेदा भक्तमाहात्म्यञ्चोपथापितानि। साहित्यसमीक्षणमार्गोऽत्रावलम्बितः।

Last modified: 2024-09-16 21:07:26