ResearchBib Share Your Research, Maximize Your Social Impacts
Sign for Notice Everyday Sign up >> Login

काण्वसंहितायामग्नितत्त्वविमर्शः

Journal: Praxis International Journal of Social Science and Literature (Vol.4, No. 3)

Publication Date:

Authors : ;

Page : 55-60

Keywords : अग्नेरुत्पत्तिः; स्वरूपवर्णनम्; अग्नेः कर्माणि; अग्निस्तत्त्वम्; सप्तसंख्यासम्बन्धः।;

Source : Downloadexternal Find it from : Google Scholarexternal

Abstract

पर्यावरणे विदितपञ्चमहाभूतेषु दूषणरहितत्वेन तेजस्तत्त्वस्य सद्भावो भवत्यग्निः। यागकर्मणि अग्नेः वैशिष्ट्यबाहुल्यात् यजुर्वेदीयमनत्रभागेषु अग्निः प्राधान्येन स्तूयते हूयते च । यद्यपि संहिता-ब्राह्मणादिषु मन्त्रभागेषु भौतिक पाचकाग्निः नैव प्रार्थितः, अपि तु तस्याग्नेः तात्त्विकं रूपमेव आराधितम् । तथा ह्यग्नेस्तेजरूपत्वं सम्पूर्णवैदिकसाहित्ये असकृदेव दृश्यते । तत्तेजस्तत्त्वत एकैवाग्निः त्रिषु लोकेषु प्रकाशते । पृथिव्यां प्रकाशमानो दाहकोऽग्निः सर्वेषां जीवितभूतः, अन्तरीक्षे वैद्युताग्निः वृष्टिप्रेरको, दिवि च सूर्यरूपो जगतः प्रसविता इति तस्य तेजरूपस्य सर्वत्र विद्यमानत्वे सति भौतिकरूपेण पृथिव्यां स्थितिरिति यास्काचार्यादिभिरङ्गिकृतः। एवमेव तेजसा प्रकाशमानत्वादग्निः प्रत्यक्षदेवतात्वेन आराध्यते ।

Last modified: 2021-06-21 01:55:08